पृष्ठे

रविवार, १७ एप्रिल, २०२२

लोकहितं मम् करणीयम्


मनसा सततं स्मरणीयं
वचसा सततं वदनीयं
लोकहितं मम करणीयम् ॥ लोकहितम् ॥

न भोगभवने रमणीयं
न च सुखशयने शयनीयम् ।
अहर्निशं जागरणीयं
लोकहितं मम करणीयम् ॥ १॥

न जातु दुःखं गणनीयं
न च निजसौख्यं मननीयम् ।
कार्यक्षेत्रे त्वरणीयं
लोकहितं मम करणीयम् ॥ २॥

दुःखसागरे तरणीयं
कष्टपर्वते चरणीयम् ।
विपत्तिविपिने भ्रमणीयं
लोकहितं मम करणीयम् ॥ ३॥

गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे ।
तत्र मया सञ्चरणीयं
लोकहितं मम करणीयम् ॥ ४॥

           - डाॅ श्रीधर भास्कर वर्णेकर

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा